श्रीनृसिंहकवचम्
ध्यानम्
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे ।।
श्रीनारदउवाच
इन्द्रादिदेववृन्देश, ईड्येश्वर जगत्पते
महाविष्णो नृसिंहस्य कवचं ब्रूहि मे प्रभो ।।
यस्य प्रपठनाद् विद्वांस्त्रैलोक्यविजयीभवेत्
ब्रह्मोवाच शृणु नारद वक्ष्यामि पुत्र श्रेष्ठ तपोधन ।
कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ।।
यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् ।
स्त्ष्टाऽहं जगतां वत्स पठ्नाद् धारणाद्यतः ।।
लक्ष्मीर्जगत्त्रयं पाति संहर्ता च महेश्वरः ।
पाठाद्धारणाद्देवा बभूवुश्च दिगीश्वराः ।।
ब्रह्ममन्त्रमयं वक्ष्ये भ्रान्त्यादिविनिवारकम् ।
यस्य प्रसादादुर्वासस्त्रैलोक्य विजयो मुनिः ।।
पठनाद्धारणाद्यस्य शास्ता च क्रोध भैरवः ।
त्रैलोक्य विजयस्यास्य कवचस्य प्रजापतिः ॥
ऋषिश्छन्दश्च गायत्री नृसिंहो देवता विभुः ।
चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्तितः ।।
क्षौं बीजं मे शिरः पातु चन्द्रवर्णोमहामनुः ।।
नृसिंह-कवचम्
अथ मन्त्रः
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंह भीषणं भद्रं मृत्यु-मृत्युं नमाम्यहम् ।
द्वात्रिंशदक्षरो मन्त्रो मन्त्रराजः सुरद्रुमः ।
कण्ठं पातु ध्रुवं क्षौं हृद् भगवते चक्षुषी मनः ।।
नरसिंहाय च तथाऽग्निनेत्राय च नासिका।
सर्वरक्षोघ्नाय च सर्वभूतहिताय च ।।
सर्वज्वरविनाशाय दह दह पच पच द्वयम् ।
रक्ष रक्ष वर्म चास्त्रं स्वाहा पातु मुखं मम ।।
तारादि रामचन्द्राय नमः पायाद् गुदं मम ।
क्लीं पायाद् भुजयुग्मं च तारं नमः पदन्ततः
नारायणाय पार्श्वञ्च आं ह्रीं क्रौँ छौँ च हुंफट् ।
षडक्षरः कटिं पातु नमो भगवते पदम् ।
वासुदेवाय पृष्ठं क्लीं कृष्णाय क्लीं ऊरु द्वयम् ।।
क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः ।
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ।।
क्षौं नृसिंहाय क्षौं च सर्वाङ्गे मे सदावतु ।
फलश्रुति
इति कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः ।
सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ।
शतमष्टोत्तरञ्चास्य पुरश्चर्याविधिः स्मृतः ।
हवनादीन् दशांशेन कृत्वा तत्साधयेद् ध्रुवम् ।।
ततस्तु सिद्धकवचः पुण्यात्मा मदनोपमः ।।
स्पद्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेन्मुखे ।।
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत् सकृत् ।
अपि वर्षसहस्राणां पूजानां फलमाप्नुयात् ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ।
कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ।।
योषिद् वामभुजे चैव पुरुषो दक्षिणे भुजे ।
विभृयाद् कवचं पुण्यं सर्वसिद्धियुतो भवेत् ।
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् ।
जन्मबन्ध्या नष्टपुष्पा बहुपुत्रवती भवेत् ।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।।
भूतप्रेतपिशाचाश्च राक्षसा दानवाश्च ये ।।
तं दृष्ट्वा प्रपलायन्ते देशाद् देशान्तरं ध्रुवम् ।।
यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति ।
तं देशन्तु परित्यज्य प्रयान्ति चाति दूरतः ।।
तप्त-हाटक-केशाग्र-ज्वलत्पावकलोचने ।
वज्राधिक-नखस्पर्श-दिव्यसिंह नमोऽस्तुते ।।
|| इति ब्रह्मसंहितायां त्रैलोक्यविजयं श्रीनृसिंहकवचं सम्पूर्णम् ।।
विशेष- इस कवच का पाठ या अनुष्ठान करने से पूर्व गुरु आज्ञा एवं किसी जानकार शास्त्रज्ञ द्वारा सलाह अवश्य लें- निश्चित करलें आप इस कवच को करने के योग्य हैं अथवा नहीं, ,
नोट- यह कहीं से कापी नहीं किया है लिखने में यदि कुछ त्रुटि रह गई हो तो अवश्य सूचित करें,
धन्यवाद
🙏 ॥॥ऊँ काली॥॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें